|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.352. अध्यायः 352
Mahabharata - Shanti Parva - Chapter Topics
श्रीकृष्णेनार्जुनंप्रति हृषीकेशादिस्वनामनिर्वचनम्॥ 1॥ तथा रुद्गनारायणयुद्धवर्णनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
`भगवानुवाच। 12-352-0x(6611)(80026)
नाम्नां निरुक्तं वक्ष्यामि शृणुष्वैकाग्रमानसः।
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः।'
बोधयंस्तापयंश्चैव जगदुत्तिष्ठते पृथक्॥ 12-352-1(80027)
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत्।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन।
हृषीकेशोऽहमीशानो वरदो लोकभावनः॥ 12-352-2(80028)
इलोपहूतं गेहेषु हरे भागं क्रतुष्वहम्।
वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरहं स्मृतः॥ 12-352-3(80029)
धामसारो हि लोकानामृतं चैव विचारितम्।
ऋतधामा ततो विप्रैः सद्यश्चाहं प्रकीर्तितः॥ 12-352-4(80030)
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम्।
गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः॥ 12-352-5(80031)
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्।
तेनाविष्ट तु यत्किंचिच्छिपिविष्टेति च स्मृतः॥ 12-352-6(80032)
यास्को मामृपिरव्यग्रो नैकयज्ञेषु गीतवान्।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम्॥ 12-352-7(80033)
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान्॥ 12-352-8(80034)
न हि जातो न जायेयं न जनिष्ये कदाचन।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजं स्मृतः॥ 12-352-9(80035)
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन।
ऋता ब्रह्मसुता सा मे सत्यदेवी सरस्वती॥ 12-352-10(80036)
सच्चासच्चैव कौन्तेय मया वेशितमात्मनि।
पौष्करे ब्रह्मसदने सत्यं मासृषयो विदुः॥ 12-352-11(80037)
सत्वान्न च्युतपूर्वोऽहं सत्यं वै विद्धि मत्कुतम्।
जन्मनीहाभवेत्सत्वं पौर्विकं मे धनंजय॥ 12-352-12(80038)
निराशीः कर्मसंयुक्तः सत्वतश्चाप्यकल्मषः।
सात्वतज्ञानगदृष्टोऽहं सत्वतामिति सात्वतः॥ 12-352-13(80039)
कृषाणि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृषणोऽहमर्जुन॥ 12-352-14(80040)
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम॥ 12-352-15(80041)
निर्वाणं परमं ब्रह्म धर्मोऽसौ पर उच्यते।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा॥ 12-352-16(80042)
पृथिवीनभसी चोभे विश्रुते विश्वतोमुखे।
तयोः संधारणार्थं हि मामधोक्षजमञ्जसा॥ 12-352-17(80043)
निरुक्तं वेदविदुपो वेदशब्दार्थचिन्तकाः।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्मृतः॥ 12-352-18(80044)
शब्द एकमतैरेप व्याहृतः परमर्षिभिः।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम्॥ 12-352-19(80045)
धृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः॥ 12-352-20(80046)
त्रयो हि धातवः ख्याताः कर्मजा इति ये स्मृताः।
पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते॥ 12-352-21(80047)
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते।
आयुर्वेदविदस्तस्मात्रिधातुं मां प्रचक्षते॥ 12-352-22(80048)
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत।
नेघण्टुकपदाख्याने विद्धि मां वृषमुत्तमम्॥ 12-352-23(80049)
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।
त्समाद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥ 12-352-24(80050)
न चादिं न मध्यं तथा चैव नान्तं
कदाचिद्विमन्ते द्विजा मे सुराश्च।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः।
प्रगीतोऽहमीशो विभूर्लोकसाक्षी॥ 12-352-25(80051)
शुचीनि श्रवणीयानि शृणोमीह धनंजय।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः॥ 12-352-26(80052)
एकशृङ्गः पुरा भूत्वा वराहो नन्दिवर्धनः।
इमां चोद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम्॥ 12-352-27(80053)
तथैवासं त्रिककुदो वाराहं रूपमास्थितः।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात्॥ 12-352-28(80054)
निरिञ्च इति यत्प्रोक्तं कापिल ज्ञानचिन्तकैः।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत्॥ 12-352-29(80055)
विद्यासहायवन्तं मामादित्यस्थं सनातनम्।
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः॥ 12-352-30(80056)
हिरण्यगर्भो द्युतिमान्य एष च्छन्दसि स्तुतः।
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः॥ 12-352-31(80057)
एकविंशतिसाहस्रं ऋग्वेदं मां प्रचक्षते।
सहस्रशाखं यत्साम ये वै वेदविदो जनाः।
गायन्त्यारण्यके विप्रा मद्भक्तास्ते हि दुर्लभाः॥ 12-352-32(80058)
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्यत।
यस्मिञ्शाखा यजुर्वेदे सोहमाध्वर्यवे स्मृतः॥ 12-352-33(80059)
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम्।
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा॥ 12-352-34(80060)
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः।
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान्॥ 12-352-35(80061)
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम्।
सोहमेवोत्तरे भागे क्रमाक्षरविभागवित्॥ 12-352-36(80062)
रामादेशितमार्गेण मत्प्रसादान्महात्मना।
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात्॥ 12-352-37(80063)
बाभ्रव्यगोत्रः स बभौ प्रथमं क्रमपारगः।
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम्।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः॥ 12-352-38(80064)
पुण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान्।
जातीमरणजं दुःखं स्मृत्वास्मृत्वा पुनः पुनः।
सप्तजातिषु मुख्यत्वाद्योगाना संपदं गतः॥ 12-352-39(80065)
पुराऽहमात्मजः पार्थ प्रथितः कारणान्तरे।
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः॥ 12-352-40(80066)
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम्।
धर्मयानं समारूढौ पर्वते गन्धमादने॥ 12-352-41(80067)
तत्कालसमये चैव दक्षयज्ञो बभूव ह।
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत॥ 12-352-42(80068)
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत्।
ससर्ज शूलं कोपेन प्रज्वलन्तं मुहुर्मुहुः॥ 12-352-43(80069)
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम्।
आवयोः सहसाऽगच्छद्वदर्याश्रममन्तिकात्।
वेगेन महता पार्थ पतन्नारायणोरसि॥ 12-352-44(80070)
तत्तस्यतेजसाऽऽविष्टाः केशा नारायणस्य ह।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान्॥ 12-352-45(80071)
तच्च शूलं विनिर्धूतं हुंकारेण महात्मना।
जगाम शंकरकरं नारायणसमाहतम्॥ 12-352-46(80072)
अथ रुद्र उपाधावत्तावृषी तपसाऽन्वितौ॥ 12-352-47(80073)
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना।
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता॥ 12-352-48(80074)
अथ रुद्रविघातार्थमिषीकां नर उद्धरन्।
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान्॥ 12-352-49(80075)
क्षिप्तश्च सहसा तेन खण्डनं प्राप्तवांस्तदा।
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात्॥ 12-352-50(80076)
`रुद्रस्य भागं प्रददुर्भागमुच्छेषणं पुनः।
श्रुतिरप्यत्र भवति वेदैरुक्तस्तथा पुनः॥ 12-352-51(80077)
उच्छेपणभागो वै रुद्रस्तस्योच्छेपणेन होतव्यमिति सर्वे गम्यरूपेण तदा॥' 12-352-52(80078)
अर्जुन उवाच। 12-352-53x(6612)
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यशमने तदा।
को जय प्राप्तवांस्तत्र शंसैतन्मे जनार्दन॥ 12-352-53(80079)
श्रीभगवानुवाच। 12-352-54x(6613)
तयोः संरब्धयोर्युद्धे रुद्रनारायणात्मनोः।
उद्विग्राः सहसा कृत्स्नाः सर्वे लोकास्तदाऽभवन्॥ 12-352-54(80080)
नागृह्णात्पाव्नकः शुभ्रं मूखेषु सुहुतं हविः।
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनां॥ 12-352-55(80081)
देवान्रजस्तमश्चैव समाविविशतुस्तदा।
वसुधा संचकम्पे च नभश्च विपफाल ह॥ 12-352-56(80082)
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनच्युतः।
अगाच्छोपं समुद्रश्च हिमवांश्च व्यशीर्यत॥ 12-352-57(80083)
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन।
ब्रह्मा वृतो देवगणार्ऋषिभिश्च महात्मभिः।
आजगामाशु तं देशं यत्र युद्धमवर्तत॥ 12-352-58(80084)
सोऽञ्जलिप्रग्रहो भूत्वा चतुर्वक्रो निरुक्तगः।
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम्।
त्यजायुधानि विश्वेश जगतो हितकाम्यया॥ 12-352-59(80085)
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम्।
कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः।
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शुभा॥ 12-352-60(80086)
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ।
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ॥ 12-352-61(80087)
अहं प्रसादजस्तस्य कुतश्चित्कारणान्तरे।
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः॥ 12-352-62(80088)
मया च सार्धं वरद विबुधैश्च महर्षिभिः।
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम्॥ 12-352-63(80089)
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन्।
प्रसादयामास ततो देवं नारायणं प्रभुम्।
शरणं च जगामाद्यं वरेण्यं वरदं हरिम्॥ 12-352-64(80090)
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः।
प्रीतिमानभवत्तत्र रुद्रेण सह संगतः॥ 12-352-65(80091)
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः।
उवाच देवमीशानमीशः स जगतो हरिः॥ 12-352-66(80092)
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु।
नावयोरन्तरं किंचिन्मा तेऽभूद्वुद्धिरन्यथा॥ 12-352-67(80093)
अद्यप्रभृति श्रीवत्सः शूलाङ्को मे भवत्वयम्।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि॥ 12-352-68(80094)
श्रीभगवानुवाच। 12-352-69x(6614)
एवंलक्षणमुत्पाद्य परस्परकृतं तदा।
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी।
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः॥ 12-352-69(80095)
एष ते कथितः पार्थ नारायणजयो मृधे।
नामानि चैव गुह्यानि निरुक्तानि च भारत।
ऋषिभिः कथितानीह यानि संकीर्तितानि ते॥ 12-352-70(80096)
एवं बहुविधै रूपैश्चरामीह वसुंधराम्।
ब्रह्मलोकं च कौन्येय गोलोकं च सनातनम्॥ 12-352-71(80097)
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम्॥ 12-352-72(80098)
यस्तु ते सोग्रतो याति युद्धे संप्रत्युपस्थिते।
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम्॥ 12-352-73(80099)
कालः स एव विहितः क्रोधजेति मया तव।
निहतांस्तेन वै पूर्वं हतवानसि यान्रिपून्॥ 12-352-74(80100)
अप्रमेयप्रभावं तं देवदेवमुमापतिम्।
नमस्व देवं प्रयतो विश्वेशं हरमक्षयम्॥ 12-352-75(80101)
यश्च ते कथितः पूर्वं क्रोधजेति पुनः पुनः।
तस्य प्रभाव एवाग्रे यच्छ्रुतं ते धनंजय॥ ॥ 12-352-76(80102)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये द्विपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 352॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-352-1 बोधयन्स्थापयंश्चैवेति ट. पाठः॥ 12-352-2 बोधनात्स्थापनाच्चैवेति ट. पाठः॥ 12-352-3 इलोपहूतं योगेनेति झ. पाठः॥ 12-352-6 शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः॥ 12-352-11 पौष्करे मन्नाभिकमलोत्थे॥ 12-352-13 निराशीः कर्म निष्कामकर्म॥ 12-352-15 विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः॥ 12-352-17 अधइति पृथिवी। अक्षू व्याप्तावित्यतोऽक् आकाशः। ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः॥ 12-352-18 प्राग्वंशे यज्ञशालैकदेज्ञे॥ 12-352-20 मम वह्निस्वरूपस्यार्चिपो वर्धकमिति शेषः॥ 12-352-28 शरीरस्य प्रकोपनादिति ध. पाठः॥ 12-352-29 कालिविज्ञानचिन्तकैरिति ट. पाठः। रेचनात्सर्वलोककृदिति ध. पाठः॥ 12-352-43 अपाहरन्नाशितवान् रुद्र इति शेषः॥ 12-352-44 तच्छूलं कर्तृ॥ 12-352-45 तत्तेजसा शूलतेजसा॥ 12-352-48 एनं समुद्धूतमुड्डीयागतं रुद्रम्॥ 12-352-50 क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा॥ 12-352-64 वरदं हर इति ट. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|